________________
नन्दिसूत्रम् ॥ २२॥
8 समलंकृतम्
REARRAHARG
चम्पकपुष्पं तथा यत् च विमुकुलं-विकसितं वरं-प्रधानं कमलं-अंभोजं तस्य यो गर्भः तत्सदृशवर्णान् तत्समानदेहकांतीन् । तथा 'भव्यजनहृदयदयितान्' भव्यजनहृदयवल्लभान् , तथा 'दयागुणविशारदान्' सकलजगज्जंतुदयाविधिविधापनयोः अतीव कुशलान् , तथा धिया राजते-शोभंते इति धीराः तान् ॥ ४३॥
अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥ ४४ ॥ ____ तथा ' अर्द्धभरतप्रधानान् ' तत्कालापेक्षया सकलार्द्धभरतमध्ये युगप्रधानान् तथा 'सुविज्ञातबहुविधस्वाध्यायप्रधानान्' सुविज्ञातो बहुविधः स्वाध्यायो यैः ते तथोक्ताः तेषां मध्ये प्रधानानुत्तमान , तथाऽनुयोजिता:-प्रवर्तिता यथोचिते वैयावृत्त्यादौवरवृषभाः-सुसाधवो यैः ते तथोक्तास्तान् । तथा नागेंद्रकुलवंशस्य नन्दिकरान् , प्रमोदकरानित्यर्थः । तथा ॥ ४४ ॥
भूयहिअप्पगम्भे बंदेऽहं भूयदिनमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीण ॥४५॥
भूतहितप्रगल्भाननेकधा सकलसत्त्वहितोपदेशदानसमर्थान् भवभयव्यवच्छेदकरान् ' सदुपदेशादिना संसारभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् , 'नागार्जुनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान् , 'भूतदिनाचार्यान्' भूतदिननामकान् आचार्यानहं वंदे , सूत्रे च भृतदिनशब्दात् मकारः अलाक्षणिकः ।। ४५ ।।
सुमुणियनिच्चानिचं सुमुणियसुत्तत्यधारयं वन्दे । सम्भावुन्भावणातत्यं लोहिचणामाणं ॥ ४६॥
SHKOISESSADOS
॥२२॥
Jain Education
For Private Personal Use Only
Jainelibrary.org