SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् । ॥ १९ ॥ Jain Education ages वायगवंसो जसवंसो अज्जनागहत्थीणं । वागरणकरण भंगियकम्भपयडीपहाणाणं ॥ ३४ ॥ व इत्यादि, पूर्वगतं सूत्रं अन्यच्च विनेयान् वाचयंति इति वाचकाः तेषां वंशः - क्रमभाविपुरुषपर्व प्रवाहः 'स' ' वर्द्धतां ' वृद्धिं उपयातु, 'मा' कदाचिदपि तस्य वृद्धिं उपगच्छतो विच्छेदो भूयात् इति । 'यशोवंशो' मूर्तो यशसो वंश इव - पर्वप्रवाह इव यशोवंशः, आर्यनागहस्तिनां आर्यनंदिलक्षपणशिष्याणां कथंभूतानामिति आह - 'व्याकरणकरण भङ्गी कर्म्मप्रकृतिप्रधानानां ' तत्र व्याकरणं संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च, प्रश्न व्याकरणं, करणं- पिंडविशुद्धयादि, उक्तं च " पिंडविसोही समिई भावणपडि माई इंदियनिरोहो । पडिलेहणमुत्तीओ अभिग्गहा चैव करणं तु ॥ १ ॥ " भङ्गी-भङ्गबहुलं श्रुतं, कर्म्मप्रकृतिः - प्रतीता, एतेषु प्ररूपणां अधिकृत्य प्रधानानाम् ॥ ३४ ॥ जच्चजणधाउसमप्पहाणं मुद्दियकुवलयनिहाणं । वड्ढउ वायगवंसो रेवनक्खत्तनामाणं ॥ ३५ ॥ जञ्चजण इत्यादि, आर्यनागहस्तिनामपि शिष्याणां रेवतिनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथंभूतानामित्याह' जात्यांजनधातुसमप्रभाणां ' जात्यश्वासौ अञ्जनधातुश्च तेन समा-सदृशा प्रभा देहकांतिः येषां ते तथा, 'मुद्रिकाकुवलयनिभानां परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनः आहुः - कुवलयं इति मणिविशेषस्तत्रापि अविरोधः ॥ ३५ ॥ अयलपुराणिक्खते कालियसुयआणुओगिए धीरे । बंभद्दीविअ सीहे वायगपयमुत्तमं पत्ते ॥ ३६ ॥ अयलेत्यादि, रेवतिनक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकान् आचार्यान् ' अचलपुरात् For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ १९ ॥ ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy