________________
नन्दिसूत्रम् ॥१८॥
अवचूरिसमलंकृतम्
RUSSRASHUSHIRISH
संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्ध निकाइआ जिणपन्नता भावा आघविजंति पन्नविजंति परूविजंति दसिजत्ति निदंसिर्जति उवदंसिजति से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आपविजइ । सेतं ठाणे ॥३॥
अथ किं तत् स्थानं ?, तिष्ठति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन् इति स्थानं, तथा च आह सूरिः-स्थानेन स्थाने वा' णं'। इति वाक्यालंकारे, जीवाः स्थाप्यते-यथावस्थितखरूपप्ररूपणया व्यवस्थाप्यते । शेष प्रायो निगदसिद्धं, नवरं 'टंकं' छिन्नतटं टंकं, कूटानि पर्वतस्य उपरि यथा वैताढ्यस्य उपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः-शिखरेण समन्वितास्ते च वैताढ्यादयः, तथा यत् कूटोपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं, यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृतिकुब्जं विनिर्गतं तत्प्राग्भारं, कुण्डानि-गङ्गाकुण्डादीनि, गुहाः-तिमिश्रगुहादयः, आकराः-रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हृदाः-पौण्डरीकादयः, नद्योगङ्गा सिन्ध्वादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मिति वाक्यालंकारे एकाद्यकोत्तरिकया वृद्धया दशस्थानकं यावद्विवद्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति? एकसंख्यायां यावत् दशसंख्यायां ये ये भावा यथा यथा अन्तर्भवति तथा तथा ते ते प्ररूप्यंते इत्यर्थः, यथा 'एगे आया' इत्यादि, तथा 'जं इत्थं च णं लोके तं सव्वं दुपडोयारं, तं जहा-जीवा चेव अजीवा चेव' इत्यादि । 'ठाणस्स णं परित्ता वायणा' इत्यादि, सर्व प्राग्वत् परिभावनीयं, पदपरिमाणं च पूर्वस्मात् पूर्वस्मात् अंगात् उत्तरस्मिन् उत्तरस्मिन् अंगे द्विगुणं अवसेयं । शेष पाठसिद्धं, यावत् निगमनं ।
से किं तं समवाए ? समवाए णं जीवा समासिजंति, अजीवा समासिज्जंति, जीवाजीवा समासिजंति
**ILISHA RASPOLAGO
॥१८३॥
Jain Education
For Private & Personel Use Only
Whjainelibrary.org