________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
॥१६८॥
गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥३॥" भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः । तथा विहारकल्प इति, विहरण विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रंथे स विहारकल्पः । तथा चरणं-चारित्रं तस विधिः यत्र पर्ण्यते स चरणविधिः । तथा 'आतुरप्रत्याख्यानं' इति, आतुरः-चिकित्साक्रियाव्यपेतः तस्य प्रत्याख्यानं यत्र अध्ययने विधिपूर्वकं उपवर्ण्यते तत् आतुरप्रत्याख्यानं, तथा महत् प्रत्याख्यानं यत्र वर्ण्यते तत् महाप्रत्याख्यानं 'एवं तावत् अमूनि अध्ययनानि-एतानि अध्ययनानि जहाभिहाणत्थाणि भणियाणि' तत् एतत् उत्कालिकं । उपलक्षणं च एतत् इति उक्तं उत्कालिकं । अथ किं तत् कालिकं ? कालिक अनेकविधं प्रज्ञप्तं, तद्यथा इत्यादि, 'उत्तराध्ययनानि' सर्वाणि अपि च अध्ययनानि प्रधानानि एव तथापि अमूनि एव रूढ्या उत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि । दशा इत्यादि प्रायो निगदसिद्ध । निशीथं इति निशीथवत् निशीयः, इदं प्रतीतमेव, तस्मात् परं यत् ग्रंथार्थाभ्यां महत्तरं निशीथाभ्यां महत्तरं तत् महानिशीथं । तथा आवलिकाप्रविष्टानां इतरेषां वा विमानानां वा प्रविभक्तिःप्रविभजनं यस्यां ग्रंथपद्धतौ सा विमानप्रविभक्तिः, सा च एका स्तोकग्रंथार्था, द्वितीया महाग्रंथार्था, तत्र आद्या क्षुल्लकविमानप्रविभक्तिः, द्वितीया महाविमानप्रविभक्तिः। अंगस्य-आचारादेः चूलिका अंगचूलिका । चूलिका नामोक्तानुक्तार्थसंग्रहात्मिका ग्रंथपद्धतिः, वर्गोऽध्ययनानां समूहो यथा अंतकृत् दशासु अष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याः चूलिका व्याख्या | चूलिका । तथा अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रंथः परावय॑मानश्च तत् उपपातहेतुः सोऽरुणोपपातः, तथा च अत्र चूर्णिकारो भावनां अकार्षीत् 'जाहे तमज्झयणं उवउत्ते समाणे अणग्रारे परियट्टेइ ताहे से अरुणदेवे समयनिवद्धत्तणओ चलियासणसंभमुभंतलोयणे पउत्तावही वियाणियढे पहढे चलचवलकुंडलधरे दिव्वाए जुईए दिव्वाए विभूईए दिवाए गईए जेणामेव से भयवं
॥१६॥
Jain Education
on
For Private & Personel Use Only
jainelibrary.org