SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरि समलंकृतम् ॥१६॥ ALSO REASOROSCORMSEX वरणकर्मपरमाणुभिः एकैकस्यापि आत्मप्रदेशस्य आवेष्टितपरवेष्टितस्यापि नैकांतेन चैतन्यमात्रस्यापि अभावो भवति । ततो यत् सर्वजघन्यं तन्मतिश्रुतात्मकं अतः सिद्धोऽक्षरस्यानंतभागो नित्य उद्घाटितः, तथा च सति मतिज्ञानस्य च अनादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितम् । तदेतत् सादिसपर्यवसितम् ।। से किं तं गमियं? गमियं दिद्विवाओ, अगमियं कालियं सुयं । सेत्तं गमियं सेत्तं अगमियं । अहवातं | समासओ दुविहं पन्नत्तं तं जहा-अंगपविट्ठ । अंगबाहिरं च ।। अथ किं तद् गमिकं १, इह आदिमध्यावसानेषु किंचिद्विशेषतो भूयोभूयस्तस्य एव सूत्रस्य उच्चारणं गमः, तत्र आदौ-सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि । एवं मध्यावसानयोः अपि यथासंभवं द्रष्टव्यं । गमा अस्य विद्यते इति गमिकं, तत् गमिकं प्रायो दृष्टिवादः, तथा च आह-'गमियं दिहिवाओं' तत् विपरीतं अगमिकं, तत् च प्रायः आचारादिकालिकश्रुतं, असदृशपाठात्मकत्वात् , तथा च आह-'अगमियं कालियसुयं तदेतत् गमिकं अगमिकं, अथवा तत्-सामान्यतः श्रुतं अर्हत् उपदेशानुसारि समासतः-संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा-अंगप्रविष्टं अंगवाह्यं च, तत्र अंगप्रविष्टं इति । इह पुरुषस्य द्वादश अंगानि भवंति, तद्यथाद्वौ पादौ २, द्वे जंघे ४, द्वे उरुणी ६, द्वे गात्राढे ८ द्वौ बाहू १० ग्रीवा ११ शिरश्च १२ एवं श्रुतरूपस्यापि परमपुरुषस्य आचारादीनि द्वादश अंगानि क्रमेण वेदितव्यानि, श्रुतपुरुषस्य अंगेषु प्रविष्टं अंगप्रविष्टं-अंगभावेन व्यवस्थितमित्यर्थः, यत्पुनः एतस्य एव द्वादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितं अंगं बाह्यत्वेन व्यवस्थितं तत् अनंगप्रविष्टं, अथवा यत् गणधरदेवकृतं तदंगप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतं आचारादिकं श्रुतं उपरचयंति, एषां एव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तत् रचयितुं ईशत्वात् , न ॥१६३॥ Jain Education a l For Private Personel Use Only Haljainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy