________________
R
नन्दिसूत्रम्
॥१४०॥
सुगमं 'यावत्' एवमेव इत्यादि, एवमेव उदकबिंदुभिः इव निरंतरं प्रक्षिप्यमाणैः २ अनंतैः शब्दरूपतापरिणतैः पुद्गलैः यदा तद् || अवचूरिव्यंजनं पूरितं भवति तदा हुं करोति-हुंकारं मुंचति । तदा तान् पुद्गलान् अनिर्देश्यरूपतया परिच्छिनत्ति इति भावार्थः । अत्र समलंकृतम् व्यंजनशब्देन उपकरणेंद्रियं शब्दादिपरिणतं वा द्रव्यं तयोः संबंधो वा गृह्यते, न कश्चिद्विरोधः । तत्र यदा व्यंजनं उपकरणेंद्रिय अधिक्रियते तदा पूरितं इति कोऽर्थः? परिपूर्णभूतं व्याप्तं इत्यर्थः । यदा व्यंजनं द्रव्यं अभिगृह्यते तदा पूरितं इति-प्रभृतीकृतं खप्रमाणमानीतं खव्यक्तौ समर्थीकृतं इत्यर्थः, यदा तु व्यंजन द्वयोरपि संबंधो गृह्यते तदा पूरितं इति किं उक्तं भवति?-तावत् संबंधोऽभूत् । यावति सति ते शब्दादिपुद्गला ग्रहणं आगच्छंति, अर्थावग्रहरूपेण ज्ञानेन तं अर्थ गृहंति, तं च, नामजात्यादिकल्पनारहितं, तथा च आह-न पुनः एवं जानाति क एष शब्दादिः अर्थ इति, स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितं अनिर्देश्य सामान्यमानं गृह्णाति इत्यर्थः, एवं रूपसामान्यमात्रग्रहणकारणत्वात् अर्थावग्रहस्य, एतस्माच पूर्वः सर्वोऽपि व्यंजनावग्रहः, एषा मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहवलप्रवर्त्तितम् । तत ईहां प्रविशति-किं इदमिदं इति विमर्श कर्तुं आरभते, 'ततः ईहानंतरं क्षयोपशमविशेषभावात् जानाति-अमुक एष शब्दादिः इति, ततः एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति । ततोऽपायानंतरं अंतर्मुहूर्त्तकालं यावत् उपगतं भवति-सामीप्येन आत्मनि शब्दादिज्ञानं परिणतं भवति । अविच्युतिः151 अंतर्मुहूर्त्तकालं यावत् प्रवर्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-ततो धारणायां प्रवेशात् ॥१४०॥ 'ण' इति वाक्यालंकारे संख्येयं वा असंख्येयं वा कालं हृदि धारयति, तत्र संख्येयवर्षायुष्कः संख्येयं कालं, असंख्येयवर्षायुष्कस्तु असंख्येयकालं । अत्राह-सुप्तमंगीकृत्य पूर्वोक्तप्रकारः सर्वोऽपि घटते, जाग्रतस्तु शब्दश्रवणसमनंतरं एव अवग्रहः-इहाव्यतिरेकेण
RRRR
in Eduent an
a
l
For Private & Personal Use Only
NMainelibrary.org