SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अवचूरि नन्दिसूत्रम् ॥११९॥ MAS समलंकृतम् | स्थविरस्य वैनयिकी बुद्धिः॥७॥ 'लक्खणति पारसीकः कोऽपि अश्वखामी कस्यापि अश्वरक्षकस्य कालनियमनं कृत्वाऽश्वरक्षणमूल्यं द्वौ अश्वौ प्रतिपन्नवान् । सोऽपि च अश्वस्वामिनो दुहिता समं वर्तते, ततः सा तेन पृष्टा-कौ अश्वौ भव्यौ इति ?, तया उक्तं-अमीषां अश्वानां मध्ये यौ पाषाणभृतकुतुपानां वृक्षशिखरात् मुक्तानां अपि शब्दमाकर्ण्य नोत्रस्यतः तौ भव्यौ, तेन तथैव तौ परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते-मह्यं अमुकं अमुकं च अश्वं देहि, अश्वस्वामी प्राह-सर्वान् अपि अन्यान् अश्वान् गृहाण, किं एताभ्यां तव इति? स न इच्छति, ततो अश्वखामिना स्वभार्याय निवेदितं, भणितं च-गृहजामाता क्रियतां एष इति, अन्यथा प्रधानौ अश्वौ एष गृहीत्वा यास्यति, सा नैच्छत् , ततोऽश्वस्खाभी पाह-लक्षणयुक्तेन अश्वेन अन्येऽपि बहवोऽश्वाः संपाते कुटुंबं च परिवर्द्धते, लक्षणयुक्तौ च इमौ अश्वी, तस्मात् क्रियतां एतदिति, ततः प्रतिपन्नं तया, दत्ता तस्मै खदुहिता, कृतो गृहजामाता इति, अश्वस्वामिनो वैनयिकी बुद्धिः ॥८॥ 'गंठी'त्ति पाटलिपुरे नगरे मुरुंडो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूद | सूत्रं समा यष्टिः अलक्षितद्वारः समुद्गको जतुना घोलित' तानि च मुरुंडेन राज्ञा सर्वेषां अपि आत्मपुरुषाणां दर्शितानि, परं न | केनापि ज्ञातानि, ततः आकारिताः पादलिप्ताचार्याः, पृष्टा राज्ञा भगवन् ! यूयं जानीत ?, सूरय उक्तवंतो-बाढं, ततः सूत्रं उष्णोदके क्षिप्त उष्णोदकसंपर्कात् च विलीनं मदनं इति लब्धः सूत्रस्यांतः, यष्टिः अपि पानीये क्षिप्ता, ततो गुरुभागो मूलं इति ज्ञातं, समुद्गकेऽपि उष्णोदके क्षिप्ते जतु सर्व गलितं इति द्वार प्रकटं बभूव । ततो राजा सूरीन् प्रत्यवादीत्-भगवन् ! यूयं अपि दुर्विज्ञेयं किं अपि कौतुकं कुरुत येन तत्र प्रेषयामि । ततः सूरिभिः तुंवं एकस्मिन् प्रदेशे खंडं एकं अपहाय रत्नानां भृतं, ततस्तथा तत् खंडं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रराजकीयाः पुरुषा:-एतत् अभक्त्वा इतो रत्नानि गृहीतव्यानि, न शक्तं तैः एवं कर्तुम् । १ चर्ममयभाजनमित्यर्थः भाषायां 'कुल्लु' इत्युच्यते । ॥११९॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy