SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥११२॥ वयं दैवेन चक्षुषी दत्वाऽस्माकं समुत्पाटिते यत् निधानमुपदिश्य अंगारकाः दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखं अवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हृतं निधानमिति, ततः तेनापि आकारसंवरणं कृत्वा तस्यानुशासनार्थ ऊचे-मा वयस्य ! खेदं कार्षीः न खलु खेदं विधानप्रत्यागमनहेतुः, ततो गतौ द्वौ अपि खं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवा इव प्रतिमाकारि, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्च उत्संगे हस्ते शिरसि स्कंधे च अन्यत्र च यथायोगं तयोर्मर्कटकयोर्योग्यं भक्ष्यं मुक्तवान् , तौ च मर्कटको क्षुधापीडितौ तत्र आगत्य प्रतिमाया उत्संगादौ भक्ष्यं भक्षितवंती, एवं च प्रतिदिनं करणे तयोः तादृश्यैव शैली समजनि, ततोऽयदा किं अपि 5 पर्वाधिकृत्य मायाविनो द्वौ अपि पुत्रौ भोजनाय निमंत्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तो तेन महागौरवेण, भोजनानंतरं च तौ महता सुखेन अन्यत्र संगोपितो, ततः स्तोकदिनावसाने मायावी स्वपुत्रसाराकरणाय तद्गृहमागतः, ततो द्वितीयः तं प्रति ब्रूते-मित्र ! तौ तव पुत्रौ मर्कटौ अभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्राविशत् , ततो लेप्यमयी प्रतिमा उत्साये तत् स्थाने समुपवेशितः, मुक्तौ स्वस्थानात् मर्कटौ, तौ च किलकिलायमानौ तस्य उत्संगे शिरसि स्कंधे हस्ते च आगत्य विलनौ, ततो मित्रं अवादीद-भो! वयस्य ! तौ एतौ तव पुत्रौ, तथा च पश्य तव स्नेहं आत्मीयं दर्शयतः, स मायावी प्राह-वयस्य ! किं मानुषी अकस्मात् मर्कटौ भवतः ? वयस्य आह-भवतः कर्मप्रातिकूल्यवशात् , तथा हि-किं सुवर्ण अंगारी भवति ? परमावयोः कर्मप्रातिकूल्यात् एतदपि जातं, तथा पुत्रौ अपि तव मर्कटौ अभूतां इति, ततो मायावी चिंतयामास-नूनं अहं ज्ञातोऽनेन, ततो यदि उचैः शब्दं करिष्ये ततोऽहं राजग्राह्यो भविष्यामि, पुत्रौ च अन्यथा मे न भवतस्ततः तेन सर्व यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समर्पितौ पुत्रौ । तस्य औत्पत्तिकी बुद्धिः ॥ २३ ॥ 'सिखुत्ति शिक्षा धनुर्वेदः, तदुदाहरणभावना-कोऽपि पुमान् अतीव धनुर्वेद ॥११॥ Jain Education a l For Private & Personal Use Only M iainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy