________________
नन्दि सूत्रम्
॥१०९॥
Jain Education
पुरुषेण सह कस्मिंश्चित् प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रमरं समुत्पन्नं दृष्टं, क्षणमात्रानंतरं चं समागता गृहे, द्वितीये च दिवसे खभर्ता मदनं क्रीणंस्तया निवारितो- मा क्रीणीहि मदनं, अहं ते भ्रामरं उत्पन्नं दर्शयिष्यामि । ततः सक्रर्यात् विनिवृत्तो, गतौ च तौ द्वौ अपि तां जालिं, न पश्यति सा कथं अपि कोलिकी भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेन एव संस्थाने स्थिता, ततो दृष्टवती भ्रामरं दर्शयामास च कोलिकाय, कोलिकोऽपि तथारूपं संस्थानं अवलोक्य ज्ञातवान् नूनं एषा दुश्चारिणी इति । कोलिकस्य औत्पत्तिकी बुद्धिः ॥ १८ ॥ ' मुद्दिय'त्ति मुद्रिका उदाहरणं, तत् भावना - क्वचित् पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः यथा परकीयान् निक्षेपान् आदाय आदाय प्रभूतकालातिक्रमेऽपि तथा स्थितानेव समर्पयति इति । एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशांतरं अगमत् । प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते स्वं निक्षेप पुरोधसं, पुरोधाच मूलत एवं अपलपति कस्त्वं कीदृशो वा तव निक्षेप इति ? । ततः स रंको वराकः खं निक्षेपं अलभमानः शून्यचित्तो बभूव । अन्यदा च तेन अमात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपं इति, तदेतत् आकर्ण्य अमात्यः तद्विपयकृपापरीतचेता बभूव । ततो गत्वा निवेदितं राज्ञः कारितश्च दर्शनं द्रमको, राज्ञापि भणितः पुरोधाः- देहि तस्मै द्रमकाय स् निक्षेपं इति, पुरोहितोऽवादीत् - देव ! न किं अपि तस्याहं गृह्णामि, ततो राजा मौनं अधात्, पुरोधसि च स्वगृहं गते राजा विजने तं द्रमकं आकार्य पृष्टवान् रे ! कथय सत्यमिति, ततस्तेन सर्व दिवस मुहूर्त्तस्थानपार्श्ववर्त्तिमानुषादिकं कथेयं कथितं, ततोऽन्यदा राजा पुरोधसा समं रंतुं प्रावर्त्तत, परस्परं नाममुद्रा च संचारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति वभाण - रे ! पुरोधसो गृहं गत्वा तद्भार्यां एवं ब्रूहि यथाहं पुरोधसा प्रेषितः, इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१०९॥
ainelibrary.org