SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अतिआतुरश्च वर्तते ततस्तं प्रति अहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञे मंत्रिणा, प्रतिपन्न राज्ञा तथा इति । मंत्रिण अवचूरिWऔत्पत्तिकी बुद्धिः॥१६॥ 'पुत्त' ति पुत्रदृष्टांतः, तद्भावना-कोऽपि वणिक् , तस्य द्वे पत्न्यो, एकस्याः पुत्रोऽपरा बंध्या, परं सापि तं ॥१०८॥ * समलंकृतम् पुत्रं सम्यग् पालयति, ततः स पुत्रो विशेषं न जानीते-इयं मे जननी इयं न इति, सोऽपि वणिक् सभार्यापुत्रो देशांतरं गतो, गतमात्र Pएव च परासुरभूत् । ततो द्वयोः अपि तयोः कलहोजायत, एका भणति-एष मम पुत्रस्ततः अहं गृहस्वामिनी, द्वितीया तु ब्रूते-का त्वं ?, मम एष पुत्रः ततः अहं एव गृहस्वामिनीति, एवं च तयोः परस्पर कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः । प्रतिपादयामास निजपुरुषान्-भोः! पूर्व द्रव्यं समस्तं विभजतविभज्य ततो दारकं द्वौ भागौ करपत्रेण कुरुत, कृत्वा च एकं खंडं एकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतत् अमात्यवाक्यं शिरसि महाज्वाला सहस्रावलीढवज्रोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कंपहृदयाहृदयांतःप्रविष्टतिर्यक्शल्येव सदुःखं वक्तुं प्रवृत्ता-हा स्वामिन् ! महामात्य ! न मम एष पुत्रो, न मे किंचित् अर्थेन प्रयोजन, एतस्या एव पुत्रो भवतु गृहस्वामिनी च । अहं पुनः अमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्रयं अपि कुर्वती जीवंत द्रक्ष्यामि, तावता च कृतकृत्यं आत्मानं प्रपत्स्ये, पुत्रेण विना पुनः अधुनापि मे जीवलोको अस्तं उपयाति, । इतरा च न किं अपि वक्ति, ततोऽमात्येन तां सदुःखां परिभाव्य उक्तं, एतस्याः पुत्रो न अस्या इति, सा एव सर्वखस्वामिनी कृता, द्वितीया तु निर्धाटिता, | अमात्यस्य औत्पत्तिकी बुद्धिः ॥१७॥ ॥१०८॥ ___'भरहसिलमिंढे' इत्यादिका च गाथा रोहकसंविधानकसूचिका, सा च प्राग् उक्तकथानकानुसारेण स्वयमेव व्याख्येया। | 'महुसित्थि' त्यादि, मधुयुक्तं सिक्थं मधुसिक्थं, तत् दृष्टान्तभावना-कश्चित् कोलिकः तस्य भार्या खैरिणी, सा च अन्यदा केनापि KASARKARNER Jain Education a l For Private Personal Use Only ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy