________________
नन्दिसूत्रम्
॥ ९४ ॥
कारितो रोहकः, आभाषितश्च ग्रामप्रधानैः पुरुषैः - वत्स ! प्राचीनं अपि दुष्टराजादेशसिंधुं त्वया एव निजबुद्धिसेतुबंधेन समुत्तारितः सर्वोऽपि ग्रामस्ततः संप्रति अपि प्रगुणीकुरु निजबुद्धिसेतुबंधं येन अस्यापि दुष्टराजादेशसिंधोः पारं अधिगच्छाम इति, तत उवाच रोहको - वृकं प्रत्यासन्नं धृत्वा मेण्ठकं एनं यवसदानेन पुष्टीकुरुतः यवसं हि भक्षयन् एष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न वृद्धिं आप्स्यति इति, ततस्ते तथैव कृतवंतः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च य तावत्पलप्रमाण एव जातः ॥ २ ॥ ततो भूयोऽपि कतिपयदिनानंतरं राज्ञा कुर्कुटः प्रेषितः । एष द्वितीयं कुर्कुटं विना योधयितव्य इति, एवं संप्राप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः सभायां आकरितो रोहकः कथितश्च तस्य राजादेशः । ततो रोहकेण आदर्शको महाप्रमाण आनायितो निमृष्टश्च भूत्या सम्यक् ततो धृतः पुरो राजकुर्कुटस्य, ततः स प्रतिबिंबं आत्मीयं आदर्श दृष्ट्वा मत्प्रतिपक्षः अयं अपरः कुर्कुट - इति मत्वा साहंकारं यो प्रवृत्तो, जडचेतसो हि प्रायः तिर्यंचो भवति । एवं च अपरकुर्कुटमंतरेण योधिते राजकुर्कुटे विस्मितः सर्वोऽपि ग्रामलोकः, संपादितो राजादेशः, निवेदितं [च] राज्ञे निजपुरुपैः ॥ ३ ॥ ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान् - युष्मत् - ग्रामस्य सर्वतः समीपेऽतीव रमणीया वालुका विद्यते, ततः स्थूला वालुकामयाः कतिपयदवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं च राजादेशे समागते मिलितः सर्वोऽपि वहिः सभायां ग्रामः पृष्टश्व रोहकः, ततो रोहण प्रत्युत्तरं अदायि । नटा वयं, ततो नृत्यं एव वयं कर्तु जानीमो न दवरकादि, राजदेशच अवश्यं कर्त्तव्यः, ततो बृहत् राजकुलं इति चिरंतना अपि कतिचित् वालुकामया दवरका भविष्यति इति तन्मध्यात् एकः कश्चित् प्रतिच्छंदभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितं एतद्राज्ञे नियुक्त पुरुषः, राजा च निरुत्तरीकृतः तूष्णीमास्ते ||४|| ततः पुनरपि कतिचित् दिनानंतरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुः ग्रामे राज्ञा प्रेषितो,
For Private & Personal Use Only
Jain Educational
अवचूरिसमलंकृतम्
॥ ९४ ॥
ainelibrary.org