________________
नन्दिसूत्रम्
॥ ९३ ॥
न. सू. ८
Jain Education
| युष्मद्धामस्य बहिरतीव महती शिला वर्त्तते, तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स्म परस्परं - किमिदानीं कर्तव्यं ? दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं चं चिन्तया व्याकुलीभूतानां तेषां मध्यन्दिनमागतं, रोहकश्च पितरमन्तरेण न भुङ्क्ते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स क्षुधापीडितः पितुः समीपे समागत्य रोदितुं प्रावर्तत पीडितोऽहमतीव क्षुधा ( धया) ततः समागच्छ गृहे भोजनायेति, भरतः प्राह - वत्स ! सुखितोऽसि त्वं न किमपि ग्रामकष्टं जानासि स प्राह-पितः ! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तंमाकुलीभवत यूयं खनत शिलाया राज्ञोचितमण्डपनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीचोपलेपनादिना प्रकारेणातीवरमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नं गतः सर्वोऽपि ग्रामलोकः स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः कृता च शिला तस्याच्छादनं, निवेदितं च राज्ञे राजनियुक्तैः पुरुषैः - देव ! निष्पादितो ग्रामेण देवादेशः, राजा ग्राह-कथमिति, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथयामासुः, राजा पप्रच्छ - कस्येयं बुद्धिः १, तेऽवादिषुः, -देव ! भरतपुत्रस्य रोहकस्य, एषा रोहकस्योत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि संविधानेषु योजनीयं ततो भूयोपि - राजा रोहकबुद्धिपरीक्षार्थं मेण्टकं प्रेषितवान् एष यावत्पलः संप्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलक्रम एव समर्पणीयो, न न्यूनो नापि अधिक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता बहिः सभायां एकत्र मिलितवान्, सगौरवमा
onal
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ ९३ ॥
jainelibrary.org