________________
नन्दित्रम्
॥९१॥
नटानां एको ग्रामस्तत्र च भरतो नाम नटस्तस्य भार्या परासुरभूत , तनयश्चास्य रोहकाभिधोऽद्यापि अल्पवयास्ततः सत्वरं एव
अवचूरिस्वस्य खतनयस्य च शुश्रूषा करणाय अन्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्त्तते । ततो रोहकेण सा प्रत्यपादि-मातर्न समलंकृतम् मे त्वं सम्यक् वर्चसे ततो ज्ञास्यसि इति, ततः सा सेयॆमाह रे रोहक! किं करिष्यसि ! रोहकोऽपि आह-तत् करिष्यामि येन त्वं मम पादयोः आगत्य लगिष्यसि इति । ततः सा तं अवज्ञाय तूष्णीं अतिष्टत् । रोहकोऽपि तत्कालात् आरभ्य गाढसंजाताभिनिवेशोऽन्यदा निशि सहसा पितरं एवं अभाणीत् । भो! भो! पितः एष पलायमानो गोहो याति, तदेवं बालकवचः श्रुत्वा पितुः आशंका समुदपादिनूनं विनष्टा मे महेलेति । तत एवं आशंकावशात्तस्यां अनुरागः शिथिलीवभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्यै पुष्पताबूलादिकं प्रयच्छति दूरतः पुनः अपास्तं शयनादि, ततः सा चिंतयामास । नूनं इदं बालकविचेष्टितं, अन्यथा कथमकांड एव एष दोषाभावे पराशुखो जातः? [ततो बालकमेवमवादीत , वत्स? रोहक! किमिदं त्वया चेष्टितम् , तव पिता मे संप्रति दूरं पराशुखीभूतः, रोहकआह-किमिति तर्हि न सम्यग् मे वर्तसे तयोक्तं अत ऊर्द्ध सम्यग् वर्तिष्ये] ततो बालक आह-भव्य, तर्हि मा खेदं कार्षीः । तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽपि अन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशंकापनोदाय बालभावं प्रकटयन् निजच्छायां अंगुल्यग्रेण दर्शयन् पितरं एवमाह-भोः पितः! एष गोहो याति गोहो याति इति, तत एवं उक्ते स पिता परपुरुषप्रवेशाभिमानतो निःप्रत्याकारं कृपाणं उद्गीर्य प्राधावत् । रे! कथय कुत्र याति इति ?, ततः स
13॥९॥ रोहको बालक्रीडा प्रकटयन् अंगुल्यग्रेण निजच्छायां दर्शयति-पितः! एष गोहो याति, ततः स पिता वीडित्वा प्रत्यावृत्तः चिंतयति स्म खचेतसि-प्राक्तनोपि पुरुषो नूनमेवंविध एव आसीत् इति धिग् मया बालकवचनात् अलीकं संभाव्य विप्रियमेतावंतं कालं कृतं अस्यां
Jain Education
na
For Private & Personal Use Only
Adjainelibrary.org