________________
नन्दिसूत्रम्
| अवचूरिसमलंकृतम्
॥८२॥
BORHOORHORROR
अथ किं तत्सिद्धकेवलज्ञानं सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तं तद्यथा-अनंतरसिद्धकेवलज्ञानं च परंपरसिद्धकेवलज्ञानं च, तत्र न विद्यते अंतरं-समयेन व्यवधानं यस्य सोऽनंतरः, स चासौ सिद्धश्चानंतरसिद्धः, सिद्धत्वप्रथमसमये वर्तमान इत्यर्थः, तस्य केवलज्ञानमनंतरसिद्धकेवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यः] तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे च इति वीप्सायां पृषोदरादय इति परंपरशब्दनिष्पत्तिः परंपरे च ते सिद्धाश्च परंपरसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात् प्राक् द्वितीयादिषु समयेषु अनंतातीताद्धां यावत् वर्चमाना इत्यर्थः, तेषां केवलज्ञानं परंपरसिद्धकेवलज्ञानं, अत्रापि चशब्दः स्वगताऽनेकभेदसूचकः ।
अथ किं तत् अनंतरसिद्धकेवलज्ञानं १, सूरिराह-अनंतरसिद्धकेवलज्ञानं पंचदशविधं प्रज्ञप्तं, 'तद्यथा', इति उपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेति तीथ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च | निराधारं न भवतीति कृत्वा संघः प्रथमगणधरो वा वेदितव्यम् , तस्मिन्नुत्पन्ने ये सिद्धाः, ते तीर्थसिद्धाः, १, तथा तीर्थस्याभावोऽतीर्थ | तीर्थस्याभावश्च अनुत्पादोऽपांतराले व्यवच्छेदो वा, तस्मिन् ये सिद्धास्ते अतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थ उत्पन्नमासीत् । तथा तीर्थस्य व्यवच्छेदश्चंद्रप्रभस्वामिसुविधिखाम्यपांतराले, तत्र ये जातिसरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः, २, तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः ३, अतीर्थकर
१ शैलेश्यवस्थापर्यन्तवर्तिसमयसमासादितसिद्धत्वस्य तस्मिन्नव समये यत् केवलज्ञानं तदनन्तरसिद्धकेवलज्ञानमिति हारिभद्रवृत्तौ । MI२ तीर्थकरनामकर्मोदयभावे स्थिताः तीर्थकरभावतो वा सिद्धाः तीर्थकरसिद्धाः ।
For Private Personal use only