________________
मन्दिसूत्रम्
SOCIECRECORRECARECORRECORGAMASANG
'सुहुमो अ' इत्यादि, सूक्ष्मः सूक्ष्मो भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थों यथा सूक्ष्मस्तावत्कालो भवति | यस्मादुत्पलपत्रशतभेदे प्रतिपत्रं असंख्येयाः समयाः प्रतिपद्यते ततः सूक्ष्मकालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति ।
अवत्रियस्मादंगुलमात्रे क्षेत्रे-प्रमाणांगुलैकमात्रे श्रेणिरूपे नमःखंडे प्रतिप्रदेशं समयगणनया असंख्येया अबसप्पिण्यः तीर्थकृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणांगुलैकमात्रे एकैकप्रदेशश्चेणिरूपे नमःखंडे यावंतोऽसंख्येयासु अवसर्पिणीषु समया-16 स्तावत् प्रमाणाः प्रदेशाः वर्तते । ततः सर्वत्रापि कालादसंख्येयगुणं क्षेत्रं, क्षेत्रादपि च अनंतगुणं द्रव्य, द्रव्यादपि च अवधिविषयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा ॥८॥ तदेतत् वर्द्धमान अवधिज्ञान ।
अथ किं तत् हीयमानकं अवधिज्ञानं,
से किं तं हीयमाणयं ओहिनाणं हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणहाणेहिं वहमाणस्स वहमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहि परिहायइ से त्तं हीयमाणयं ओहिनाणं ।
मूरिराह-हीयमान अवधिज्ञानं कथंचिदवाप्तं सत् अप्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य अविरतसम्यग्दृष्टवर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य ' उत्तरोत्तरं संक्लेशमासादयता, इदं च विशेषणं अविरतसम्यग्दृष्टेः अवसेयं । | तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समंतात् अवधिः 'परिहीयते ' पूर्वावस्थातो हानि गच्छति, तदेतत् हीयमानकं अवधिज्ञानं ।
For Private & Personal Use Only
W
Jain Education Intern
a
lnelibrary.org