SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् 1359 ६०॥ AC%E5% 4 4545ECREOGEOG पश्यति तर्हि क्षेत्रतो अंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति । उक्तं च “संखेज्जंगुलभागे आवलियाए वि मुणइ तइभागं । | अंगुलमिह पेच्छतो आवलियंतो मुणइ कालं ॥१॥'आवलियं मुणमाणो संपुग्नं खेत्तमंगुलपुहुत्तमिति, पृथक्त्वं द्विप्रभृति | अवधि आ नवभ्य इति । तथा ' हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो ' मुहूतांतः पश्यति' इत्यर्थः । तथा कालतो 'दिवसांतःसमलंकृतम् किंचित् ऊणं दिवसं पश्यन् , क्षेत्रतो 'गब्यूते 'गव्यूतविषयो द्रष्टव्यः, तथा 'योजनं' योजनमात्रं क्षेत्रं पश्यन् कालतो दिवसपृयकत्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यति इत्यर्थः, तथा 'पक्षांतः' किंचिद्नं पक्षं पश्यन् क्षेत्रतः पंचविंशतियोजनानि पश्यति ॥'मरहमि' इत्यादि 'भरते' सकलभरतप्रमाणे क्षेत्राऽवधौ कालतो अर्द्धमास उक्तः, भरतप्रमाण क्षेत्रं पश्यन् कालतोऽतीतं अनागतं च अर्द्धमासं पश्यति इत्यर्थः। एवं जंबूद्वीपविषयेऽवधौ साधिको मासःकालतो बोद्धव्या, तथा 'मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ ‘वर्ष' संवत्सरमतीतं अनागतं च पश्यति । तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयो अवधिः वर्षपृथक्त्वं पश्यति । 'संखेजे 'त्यादि, संख्यायत इति संख्येयः, स च वर्षमात्रोऽपि भवति ततः तु शब्दो विशेषणार्थः । किं विशिनष्टि ? संख्येयकालो वर्षसहस्रात् परो वेदितव्यः, तस्मिन् संख्येये काले अवधिगोचरे सति क्षेत्रतस्तस्य एव अवधिः गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः ते अपि संख्यया भवंति, अपि शब्दात्महाने कोऽपि महत एकदेशोऽपि, किमुक्तं भवति ? । संख्येये काले अवधिना परिच्छिद्यमाने क्षेत्रं अपि अत्रत्यप्रज्ञापकापेक्षया, संख्येयद्वीप समुद्रपरिमाणं परिच्छेद्यं भवति । ततो यदि नामात्र त्यस्य अवधिः उत्पद्यते तर्हि जंबूद्वीपात् आरभ्य संख्येया द्वीपसमुद्राः || तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरश्चः संख्येयकालविषयोऽवधिः उत्पद्यते %A8%ES Shin Educh an inten For Private Personal use only ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy