________________
४ अतब्विरत्ता, पयणुकसायप्पहासा य ॥४॥ सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी अ। कल्लाणगा सड़ा,
धीरा तह समुवसंपन्ना ॥५॥ इति पृथक पृथक् प्रतिपादितास्तथाप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोहः कार्यो, यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते । चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतगुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामिति सूक्ष्मवुद्ध्या भावनीयम् । यदुक्तम्-दुविहंपि धम्मरयणं, तरह नरो घितुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया होइ सुत्थित्ति ॥१॥ ते च सर्वेऽपि गुणाः प्रकृते संविनादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणाई उक्तः ॥२०॥
इति परमगुरुभहारकश्रीविजयानन्दसूरिशिष्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायमानविजयगणिविरचितायां खोपज्ञधर्मसङ्ग्रहवृत्तौ सामान्यतो गृहिधर्मव्यावर्णनो नाम प्रथमोऽधिकारः।
HainEducation
For Private
Personel Use Only
jainelibrary.org