________________
धर्म॥ २५९ ॥
Jain Education
यथा सुखेन महाशैलमारोहति तथा निष्कलङ्कानुपालित्श्रमणोपासकाचारः सर्वविरतिं सुखेनावगाहत इति भावः । तदुक्तं धर्मविन्दौ - "पदं पदेन मेधावी, यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरचारित्रपर्वतम् ॥ १ ॥” एवं च स्तोकगुणाराधनानुपूर्व्या बहुगुणाराधनस्य न्याय्यत्वात् प्रथमं गृहस्थधर्मः प्रतिपादितः, तदुक्तं तत्रैव धर्मविन्दौ - " स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥ १ ॥” इति, अयं च पुरुषविशेषापेक्षो न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यादिरलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतक्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात्, कालविशेषापेक्षोऽप्ययमेव न्यायोऽनुसरणीयः, यतः पञ्चमारके प्रतिमा परिपालन पर्यन्तश्राद्धधर्मानुगृहीतचित्तस्यैव यतिधर्मप्रतिपत्तिः पञ्चाशकेऽभिहिता, तथा च तद्वचः - " जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा विसमो कालो, दुरणुचरो संजमो एत्थं ॥ १ ॥” इति ॥ ७१ ॥
इति परमगुरु भट्टारकश्री विजयानन्दसूरिशिष्यपण्डित श्री शान्तिविजयगणिचरणसेविमहोपाध्याय श्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रहवृत्तौ विशेषतो गृहिधर्मव्यावर्णनो नाम द्वितीयोऽधिकारः । ग्रन्थाग्रम् ९४२३. इति धर्मसंग्रहस्य द्वितीयोऽधिकारः ॥ इति श्रीधर्म संग्रहस्य पूर्वभागः ।
इति श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोडारे - ग्रन्थाङ्क: २६.
For Private & Personal Use Only
संग्रह.
॥ २५९ ॥
jainelibrary.org