________________
साहइ, अह णवि तो बेइ णवि जाणे ॥ ११॥ जइपज्जुवासणपरो, सुहमपयत्येसु णिचतल्लिच्छो । पुव्वोदिअ|गुणजुत्तो, दसमासा कालमासेण ॥ १२॥ एकारसीसु निस्संगो, धरे लिंग पडिग्गहं । कयलोओ सुसाहुव्व, पुव्वुत्तगुणसायरो ॥ १३ ॥ पुवाउत्तं कप्पइ, पच्छाउत्तं तु ण खलु एअस्स । ओयणभिलिंगसूआइ, सवमाहारजायं तु ॥१४॥” इति । आवश्यकचूर्णी वित्थं-राइभत्तपरिण्णा पंचमी, सचित्ताहारपरिण्णा इति षष्ठी, दिआ बंभचारी, राओ परिमाणकडेत्ति सप्तमी, दियावि राओवि बंभयारी, असिणाणए वोसट्टकेसमंसुरोमनहेत्ति अष्टमी, पेसारंभपरिणाएत्ति दशमी, उद्दिभत्तविवज्जए समणभूएत्ति एकादशीति ॥ ७० ॥ निरूपिता एकादश श्रावकप्रतिमाः, अथ गृहिधर्मोपवर्णनमुपसंहरन्नाह| प्ररूपितो जिनैरेवं, गृहिधर्मो विशेषतः । सतामनुष्ठेयतया, चारित्रगिरिपधिका ॥ ७१॥
'एवं उक्तनीत्या 'जिनैः' अर्हद्भिः 'विशेषतः सामान्यगृहस्थधर्मवैलक्षण्येन गृहिणो-गृहस्थस्य धर्मः-परमाप्तप्रणीतवचनानुसारी मैत्र्यादिभावभावितोऽनुष्ठानविशेषः, 'प्ररूपित' उपदिष्टः, स च पृथ्वीधरसरित्समुद्रद्वीपादिसदावस्थितभाववत्केवलं ज्ञेयतया मिथ्यात्वाद्याश्रववद्धेयतया वोपदिष्टो भविष्यतीत्याशङ्कायामाह-'सतामित्यादि' 'सतां' उत्तमानां मार्गानुसार्यादिभावापन्नानामित्यर्थः, 'अनुष्ठेयतया' विधेयतया, सद्भिरयं विधेय इत्युपदिष्ट इति भावः । कीदृशोऽसावित्याह-'चारित्रगिरिपद्यिकेति' चारित्रं-सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं तदेव गिरिः-पर्वतस्तस्य पद्यिकेव पद्यिका, पद्यारोहण पुमान्
घ. सं. ४४||
Jain Education in
For Private & Personel Use Only
KIPjainelibrary.org