________________
धर्म
संग्रह,
॥२४०॥
SAROCHURCOSMOSAMASSIS
चन्द्रोदयबन्धनेन यथार्ह यतना, अभ्याख्यानपैशुन्यपरुषवचननिरर्थकमृषावर्जनं, कूटतुलादिनाऽव्यवह- हरणं, ब्रह्मचर्यपालनं, तथाऽशक्तौ पर्वतिथिपालनं, शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च,
इच्छापरिग्रहप्र(परि)माणसङ्केपतरः, सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गमननियमः, यथाशक्तिलानशिरोगुम्फनदन्तकाष्ठोपानहादित्यागः, भूखननवस्त्रादिरञ्जनशकटखेटनादिनिषेधः, वादलाब्दवृष्ट्यादिना इलिकादिपातो (तात्) राजाद्नाम्रत्यागादि च, पर्युषितद्विदलपूपिकादिपर्पटवटिकादिशुष्कशाकतन्दुलीयकादिपत्र| शाकनागवल्लीदलटुप्परकखारिकखजूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात्यागः,
औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणं, खरकर्मव्यापारवर्जनं, जलक्रीडादिनियमनं, स्लानोद्वर्त्तनरन्धनादिपरिमाणकरणं, देशावकाशिकसामायिकपौषधवताना विशेषतः पर्वसु करणं, नित्यं पारणे वाऽतिथिसंविभागः, यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपोविधानं, रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यानं, दीनानाथायुद्धरणमित्यादीनि । एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाश्चोक्ताः श्राद्धविधिवृत्ती-"चाउम्मासि अभिग्गह, नाणे तह दंसणे चरिते अ । तवविरिआयारम्मि अ, व्वाइ अणेगहा हुंति ॥१॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमि नाणपूआ य ॥२॥ संमजणोवलेवण, गहिलिया मंडणं च चिइभवणे । चेइअपूआवंदणनिम्मलकरणं च बिंबाणं ॥३॥
॥२४०॥
Jain Education
l
a
For Private & Personal Use Only
www.jainelibrary.org