________________
अत्थो से न विणस्सइ, अचोरिआए फलं एअं ॥१॥ गामागरनगराणं, दोगमुहमडंबपट्टणाणं च । सुइरं हवंति सामी, अचोरिआए फलं एअं॥२॥” एतद्रतानुपादाने मालिन्योत्पादने वा दौर्भाग्यदास्याङ्गच्छेददारिद्र्यादि, उक्तमपि-"इह चेव खरारोहणगरिहा धिक्कार मरणपजंतं। दुक्खं तक्करपुरिसा, लहंति नरयं परभवंमी ॥१॥ नरयाओ उव्वद्या, केवट्टा कुंटमंटबहिरंधा । चोरिकवसणनिया, हुंति नरा भवसहस्सेसुं ॥२॥” इति ॥ २७ ॥ प्रतिपादितं तृतीयमणुव्रतं, अथ चतुर्थ तदाह| खकीयदारसन्तोषो, वर्जनं वाऽन्ययोषिताम् । श्रमणोपासकानां तच्चतुर्थाणुव्रतं मतम् ॥ २८॥
खकीयदाराः स्वकलत्राणि तैस्तेषु वा संतोषस्तन्मात्रनिष्टता 'वा' अथवा 'अन्ययोषितां' परकीयकलत्राणां 'वर्जनं त्यागः, अन्येषामात्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां च योषितः परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषां वर्जनमित्यर्थः । यद्यप्यपरिगृहीता देव्यस्तिरश्चयश्च काश्चित्संग्रहीतुः परिणेतुश्च कस्यचिद्भावाद्वेश्याकल्पा एव भवन्ति, तथापि प्रायः परजातीयभोग्यत्वात्परदारा एव ता इति वर्जनीयाः। तत्' खदारसंतोषोऽन्ययोषिवर्जनं वा 'श्रमणोपासकानां श्रावकाणां संबन्धि 'चतुर्थाणुव्रतं' 'मतं प्रतिपादितं जिनवरैरित्यन्वयः । इयमत्र भावना-मैथुनं द्विविधं, सूक्ष्मं स्थूलं च, तत्र कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत्सूक्ष्म, मनोवाकायैरौदारिकादिस्त्रीणां यः संभोगस्तत्स्थूलम् , अथवा मैथुनविरतिरूपं ब्रह्मचर्य द्विधा, सर्वतो देशतश्च, तत्र सर्वथा सर्वस्त्रीणां मनोवाकायैः सङ्गत्यागः सर्वतो ब्रह्मचर्य, तचाष्टदशधा, यतो योग
घ. सं. १२
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org