SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चतुःशरणे मिति शेषः, सम्यग्मनोवाक्कायोपयुक्ततया, कथं भवतीत्याह-सुगईफलं ति शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सुकृतानुसैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् ॥७६॥ मोदना श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात् , 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुबन्धि तत्प्राप्तिः13 गा. ५५सफल भवतीत्यर्थः ॥ ६१ ॥ अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति चउरंगो जिणधम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवच्छेओ न कओ हा हारिओ जम्मो ॥ ६२॥ चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्म:-अर्हधर्मो न कृतो-न विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् , तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि-अर्हसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्य छेदो-विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्य तेन 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्णापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि ॥७६॥ JainEducation For Private Personal use only A M .jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy