SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चारी वा गुणसंदोहो-गुणनिकरो येषां ते तथा, एवंविधानांच ज्ञानातिशयःस्यादिति हतोमोहा-अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥३५॥ खण्डितानि-त्रोटितानि स्नेहरूपाणि दामानि-रजवः आर्द्रकुमारणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामो-विषयाभिलाषो धामानि च-गृहाणि येषां, छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामधामानिविषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः,5 प्राकृतत्वात्पुंस्त्वं, यत एवंविधा अत एव निष्काम-निर्विषयं यत्सुखं-मोक्षसंबन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः-चित्तमभिरमयन्ति-आनन्दयन्तीति सत्पुरुषमनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्कक्रियासु रमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवा आचारं-पञ्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः-साधवस्ते | शरणं भवन्तु ॥ ३६ ॥ 'मिल्हि'त्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, है| विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारं गृहिणी-कलत्रं तयोः सङ्गः-संबन्धस्तस्माद्यः सुखास्वादः-सुखानुभवः स उज्झितः-परिहृतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितौ-नाश्रितौ हर्षविषादौ-प्रमोदवैमनस्ये यैस्ते निबन्दारूणां स्वशा त्यक्तान्यकृत्यत्वप्रडास्थानमिव आतः कालत्रयावस्था-क्रोधाद्या यैस्ते नु SARAGRAM in Eduentan c on For Private & Personal use only G aw.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy