________________
1
5
मेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पञ्चापि निर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्लं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपन्नान् साधूनाह'खीरासव'त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्यार्द्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवति-मुञ्चतीति क्षीराश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्धाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिनसोअत्ति ये सर्वैः शरीरावयवैः शृण्वन्ति जानन्ति च चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चां कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्नश्रोतसः, 'कुहबुद्धिय'त्ति नीरन्ध्रकोठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः, 'चारण'त्ति अतिशयचरणाच्चारणाः, ते द्विधाजङ्घाचारणा विद्याचारणाश्च, तत्राद्या एकोत्पातेन रुचकवरद्वीपं यान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोपातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया हासभवनात् , विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं|
151-52-5*5*-*-
JainEducation
For Private Personal use only
*-%
Hw.jainelibrary.org