________________
चतु:शरणे
साधुशरणं गा. ३०.
४०
SAHARSHRESEARCH RES
दीनां परिपाकप्राप्तत्वान्निस्स्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य|संसारस्य मोहनीयादिकर्मरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशककेवलोद्योतेन लघुकीकृतौ-अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात् , ते एवंविधाः सिद्धाः शरणं भवन्तु ॥२८॥ 'उवलद्धत्ति, उपलब्धं-प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः-लाभो मुक्तिपदप्राप्तिलक्षणो येषां, सर्वलाभाग्रेसरत्वात्तल्लाभस्य | सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच्च, तथा विमुक्तः-परित्यक्तः करणीयपदार्थेषु संरंभः-आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां, तथा भुवनं-जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणे-रक्षणे स्तम्भा | इव स्तम्भाः, तथा 'निरारम्भा निर्गता-बहिर्भूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां, ते एवंभूताः सिद्धा मम शरणंआलम्बनं भवन्तु ॥ एतेन सिद्धाख्यं द्वितीयं शरणमभिहितं ॥ २९ ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाह
सिद्धसरणेण नयबंभहेऊ साहुगुणजणिअअणुराओ। मेइणिमिलन्तमुपसत्यमत्थओ तत्थिमं भणइ ॥ ३०॥
जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा। । भुवनं-त्रिभुवनं तदेव गृहं तस्य धरण-अवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवनलोकस्य दुर्गतौ पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषां &ा(इति प्रत्यन्तरे)
Jain Education S
ena
For Private Personal Use Only
81 ww.jainelibrary.org