________________
है कियद्भ्यो वर्षेभ्यः पुनरूच गर्भ स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाहDI"पणप०” महिलानां-स्त्रीणां प्रायः प्रवाहेण 'पणपन्नाय'त्ति पञ्चपञ्चाशद्वर्षेभ्यः परेणं ति ऊर्ध्व योनिः प्रम्ला
यति-गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः-यथा “इत्थीए जाव पणपन्ना वासा न पूरति ताव अमिलाया जोणी-आर्तवं स्यात् गर्भ च गृह्णातीत्यर्थः 'पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गन्भं गिण्हइ, पणपनाए परओ नो अत्तवं नो गन्भं गिण्हई" इति, तथा चोक्तं स्थानाङ्गटीकायाम्-"मासि मासि रजः स्त्रीणामजनं श्रवति व्यहम् । वत्सरात् द्वादशादूर्व, याति पञ्चाशतः क्षयम् ॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये१, मार्गे २, रके ३ शुक्रे ४ ऽनिले ५ हृदि ६॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥३॥” इति । शुद्धे-निर्दोषे गर्भाशयादिषट्ठू इत्यर्थः। तथा च "ऋतुस्तु द्वादश निशाः, पूर्वास्तिसोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥४॥ पद्मं सङ्कोचमायाति, दिनेऽतोते तथा यथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥५॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत् कृष्णं विगन्धं च, वायुर्योनिमुखात्तुदेत् ॥ ६॥" तथा चाविध्वस्ता योनिरविध्वस्तं बीजं १ अविध्वस्ता योनिर्विध्वस्तं बीजं २ विध्वस्ता योनिरविध्वस्तं बीजं ३ विध्वस्ता योनिर्विध्वस्तं बीजं ४चतुषु भङ्गेषु आधे भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका नारी विध्वस्तयोनिः, सप्तसप्ततिकः पुमानिति, "द्वादश मुहूर्तान यावद् बीजं न विध्वस्तं स्यात्तत ऊर्ध्व
SOURCECAUSAMACACCOCALCk
Jain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org