________________
यन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यधने आ-भृशं चायंति-चौर इवाचरन्ति यास्ता अतिवृषाचाः ५९ 'दुगुं०' जुगुप्सनीया जुगुप्सां कर्तुं योग्याः मुनीनां ६० 'दुरु०' दुरुपचाराः-दुष्टोपचारा:-दुष्टोपचारान्वितवचनादिविस्तारो यासांतास्तथा ६१ अगंभीराः-गांभीर्यादिगुणरहिताः ६२ 'अवि०' अविश्वसनीया-18 विश्रम्भं कर्तुं योग्या न ६३ 'अण' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६४ दुःखरक्षिताः-कष्टेन रक्षणयोग्या | यौवनावस्थायाम् ६५ दुःखपालिता-दुःखेन पालयितुं शक्याः बालावस्थायाम् ६६ अरतिकराः-उद्वेगजनकाः ६७ | कर्कशा:-इह परत्र च कर्कशदुःखोत्पादकत्वात् ६८ दृढवैराः-इह परत्र च दारुणवैरकारणत्वात् ६९ रूपसौभाग्यमदोन्मत्ताः, तत्र रूपं-चार्वाकृतिः सौभाग्यं-स्वकीर्तिश्रवणादिरूपं मदो-मन्मथजगवः ७० 'भु०' भुजगगतिवत् कुटिलहृदयाः ७१ 'कता०' कान्तारगतिस्थानभूताः-कान्तारे-दुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोर्भूताः-तुल्याः, दारुणमहाभयोत्पादकत्वात् ७२ 'कुल' कुलस्वजनमित्रभेदनकारिकाः-वंशज्ञातिसुहृद्विनाश-| जनिकाः ७३ 'पर०' परदोषप्रकाशिकाः-अन्यदोषप्रकटकारिकाः ७४ 'कय०' कृतं-वस्त्राभरणपात्रादि प्रदत्तं नन्तिसर्वथा नाशयन्तीत्येवंशीलाः कृतघ्नाः ७५ 'बलसों' बलं-पुरुषवीर्य प्रति सङ्गेऽसङ्गे वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वस्वामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिका:-तच्छुद्धिकारिकाः बलशोधिकाः | यद्वा बवयो रलयोरक्यात् वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् ७६ 'एकं०' एकान्ते-विजने हरणं नेतव्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरण-तत्र
ACARRA
-%
Jain Educationimar
For Private
Personal use only
www.jainelibrary.org