________________
IM प्रशार
प्रशस्ति:
सुमति
सर्वदुःखेभ्यः-शारीरमानसेभ्यो विमुच्यते-विविध-अनेक प्रकारः अपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते विमुच्यते साधु ा | ॥५१५॥ इति अवीमीति पूर्ववत् ॥ श्रीदशवै०
इति विविक्तचर्यानाम्नी द्वितीयचूला समाप्ता २ ॥ ॥ २२ ॥
॥ समाप्तेयं दशवैकालिकस्य लघुटीका ॥
- 40महात्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥१॥ दशवैकालिके टीकां विधाय यत् पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥ २॥
(लघुटीकाप्रणेतृणां प्रशस्ति:-) दशकालिकानुयोगात् , सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोहाद्भच्याऽथवा मया ॥३॥ श्रीमद्बोधकशिष्येण, श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नोद्वेगो, मयि कार्यों मनागपि ॥ ४ ॥ यस्माद् व्याख्याक्रमः प्रोक्तः, सूरिणा भद्रबाहुना । आवश्यकस्य नियुक्ती, व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो, नियुक्तिमिश्रितः ततः । सर्वैर्व्याख्याक्रमैयुक्तो, भणितव्यस्तृतीयकः ॥६॥
॥ २२०॥
Jain Education Inter
For Private Personal Use Only
www.jainelibrary.org