________________
सुमति
बाप्रतिवन्धं कुर्यात्-आगामिकालविषयं नासंयमप्रतिवन्धं करोति ॥५१२॥ कथमित्याह-जत्थेवेति, यत्रैव पश्यत्युक्तव- उपदेशः साधु परात्मदर्शनद्वारेण क्वचित्-संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्पयुक्तं-दुर्व्यवस्थितमात्मानमिति गम्यते, केने- गा. ५१२श्रीदशवै० त्याह- कायेन वाचा अर्थ मानसेन-मन एव मानसं, करणत्रयेणेत्यर्थः, तत्रैव-तमिन्नेव संयमस्थानावसरे धीरो-बुद्धि
मान प्रतिसंहरेत-प्रतिसंहरति य आत्मानं, सम्यग्विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिमिर्गुणैर्जात्योऽश्व इति गम्यते, असाधारणविशेषणात् , तच्चेदं-क्षिप्रमिव-शीघ्रमेव खलिनं-कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगपरित्यागेन खलिनकल्पं सम्यग्विधि, एतावताउंशेन दृष्टान्त इति ॥ ५१३ ॥ यः पूर्वरात्रेत्याघधिकारोपसंहारायाह-जस्सरिसत्ति, यस्य साधोरीदृशाः स्वहितालोक(च)नप्रवृत्तिरूपा योमा-मनोवाकायव्यापारा जितेन्द्रियस्य-वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमतः-संयमे सधृतिकस्य सत्पुरुषस्व-प्रमादजयात् महा. पुरुषस्य नित्यं-सर्वकालं सामायिकप्रतिपत्तेरारम्यामरणान्तं तमाहुलोंके प्रतिबुद्धजीविनं तमेवंभूतं साधुमाहुः-अमिदधति विद्वांसो लोके-प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयम-18 जीवितेन-कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति ॥५१४॥ शास्त्रमुपसंहरबाह-उपदेशसर्वतचमाह-अप्पेति, आत्मा खल्विति-खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि, सततं-सर्वकालं रक्षितव्या-पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः-स्पर्शनादिमिः सुसमाहितेन-निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन् जातिपन्थानं-जन्ममार्ग संसारमुपैति-सामीप्येन गच्छति । सुरक्षितः पुनर्यथामममप्रमादेन ॥२१९
Jan Education International
For Private
Personal use only