________________
सुमति साधु भीदशवै. अ०९,
लोकोत्तर विनयफलम् गा.४२६४३१
॥ १७॥
एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तं, अधुना विशेषतो लोकोत्तरविनयफलमाहजे आयरियत्ति, ये आचार्योपाध्याययोः-प्रतीतयोः शुश्रूषावचनकरा:-पूजाप्रधानवचनकरणशीलास्तेषां पुण्यमाजां शिक्षा-ग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते-वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव पादपा-वृक्षा इति ॥ ४२७ ॥ एतच्च मनस्याधाय विनयः कार्य इत्याह-अप्पणहत्ति, आत्मार्थ-आत्मनिमित्तं, अनेन मे जीविका मविष्य- तीत्येवं, परार्थ वा-परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं, शिल्पानि-कुम्भकारक्रियादीनि नैपुण्यानि चआलेख्यादिकलालक्षणानि गृहिण:-असंयताः, उपभोगार्थ-अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः, इहलोकस्य कारणं-इहलोकनिमिचमिति ॥ ४२८ ॥जे णं ति, येन-शिल्पादिना शिक्ष्यमाणेन बन्धं-निगडादिभिः वधंकषादिभिर्घोरं-रौद्रं परितापं च, दारुणं-एतजनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् नियच्छन्ति-प्राप्नुवन्ति, युक्ता इति-नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया-गर्भेश्वरा राजपुत्रादय इति ॥ ४२९ ।। तेऽवि तमिति, तेऽपि इत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना, नमस्यन्ति अञ्जलि. ग्रहणादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा निर्देशवर्तिन:-आज्ञाकारिण इति ॥ ४३० ॥ यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:-किं पुणन्ति, किं पुनः यः-साधुः श्रुतग्राही-परमपुरुषप्रणीतागमग्रहणाभिलाषी अनन्तहित| कामुको मोक्षं यः कामयत इत्यभिप्रायस्तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्बदन्ति किमपि
८॥ जेणं तिनपानादिभोगाय, भकारक्रियादीन
॥ १७
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org