________________
(५) पञ्चमे-कन्यात्रयपरिणयनवर्णनम् । (६) षष्ठे-सौभाग्यमञ्जरीपरिणयनस्वजनसमागमवृत्तम् । (७) सप्तमे-कन्याचतुष्टयपरिग्रहराजगृहप्रवेशोदन्तः। (८) अष्टमे-बांधवप्रीतिप्राग्भववर्णनम् ।
(९) नवमे-चारित्रग्रहणानशनकरणसर्वार्थसिद्धविमानगमनवर्णनम् प्रशस्तिग्रन्थग्रथनसमाप्तिवर्णनश्चेति ॥ भवतामखिलपारावारप्रमथनपरिकलितबुधजनानन्दा रचितसुप्रबन्धास्समस्तहेयप्रत्यनीकानन्तकल्याणगुणैकताना वि|शिष्टविद्यासम्भारभासुरजननिकराभिवन्द्यमानाश्शरदिन्दुकुन्दघनसारनीहारहारसङ्काशमूर्त्या रचितदिगंतरालपूर्त्या लावण्योपमितसुरालये पञ्चनदालयेऽद्यापि सुधामावमानितसहस्रकरातमोहरामन्दहृदयानन्दसम्फुल्लवदनारविन्दसुरेन्द्र कदम्बनिटिलतटचुम्बितचरणारविन्दतीर्थकरचारुचैत्यवृन्दमिषेण विराजमानया निर्मानया कीर्त्याऽभितस्सुरभिता जैनाचार्या धियानन्दितविबुधाचार्या न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरि (आत्मारामजी) पादास्तीर्थपादास्तत्पदाम्भोरुहालब्धप्रसादाः श्रीमल्लक्ष्मीविजयपूज्यपादास्तेभ्य आप्तप्रसादराशिसकलमनुजाज्ञानतमोविनाशिश्रीमद्हर्षविजयाः शान्त्याकृल्लोकजयास्तच्चारुपदाम्भोजसेवालब्धप्रतापजनसंतापहारकतारकमुनिवरा मनुजसंहतिहृदयपद्माकरदिनकराः कृतकामादिषट्वैरिजयाः पूज्यपादश्रीमद्वल्लभविजयाः। तच्चरणाम्भोजरजासेवी मुनि-ललितविजयः
Jain Education in
For Private & Personel Use Only
jainelibrary.org