SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ द्वि०प० दानक० ॥१२॥ वर्षान्ते जातु राजा स्म, राजपाट्यामटाट्यते । साधं पङ्कप्रियेणासौ, पट्टदेव्या च खक्खया ॥ ६६ ॥ ता एव बदरी:क्ष्य, राजा राज्ञीमभाषत । देवि! केऽमी द्रुमा, ब्रूहि, साह जानामि न प्रिय ! ॥६॥ श्रुत्वा पङ्कप्रियो राज्ञीवाक्यमीाविसंस्थुलः । अचुकुदृन्निजां मौलिं, शत्रुवदृढमुष्टिभिः॥ ६८ ॥ ईर्ष्यापोषि वचः केनाश्राव्यतेति नृपेरितः। छन्देन प्राकृतश्छन्दः, प्राकृतं सोऽवदत्तदा ॥ ६९॥ कोलि जि बोरइँ वीणती, आज न जाणइँ खक्ख । पुणरवि अडविह करिसु घरु, न सहउँ एह अणक्ख ७० नृपो दध्यौ मया दत्ताधिपत्या यद्यसौ प्रिया । विस्मृतप्राग्दशा सौख्याल्लीलां नैवंविधां सृजेत् ॥७१॥ || तदा मम प्रसादानां, महिमा कोऽस्तु वस्तुतः। साङ्करपूरा नोर्वी चेत्प्रभावोऽब्दस्य कस्तदा ॥ ७२ ॥ इयं लीलावतीदेवी, दण्डं नार्हति सर्वथा।व्याधिरेषोऽप्रतीकारश्चेद्वने याति यातु तत् ॥७३॥ विशेषकम्। विसृष्टो भूभुजा कुम्भकारः कान्तारमीयिवान् । कुटीरं सरसस्तीरे, प्राग्वत् कृत्वा स्थितश्विरम् ॥७॥ अन्यदा व्याघबूत्कारान्नक्तं भूरि भयङ्करान् । श्रुत्वाऽनन्यगतिर्भूयोभयसङ्कुचिताङ्गकः ॥७५॥ १ कल्ये या बदराणि चिन्वती अद्य न जाणाति खक्खा । पुनरप्यटव्यां करिष्ये गृहं न सहेऽदोनाख्येयम् । ७० । ॥१२॥ Jain Education For Private & Personal Use Only ALShinelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy