________________
Jain Education Ins
क्षमासारः क्षमासारमुनिस्तत्र तदाऽऽययौ । संसारवारणं कर्तुं, मासक्षपणपारणम् ॥ १३१ ॥ | दुष्कर्म्मतानवात्सर्वे, जातसद्दानवासनाः । मुनये विनयेनैते, शम्बलं सकलं ददुः ॥ १३२ ॥ सायं संगृह्य दारुणि, क्षुधिता एव तद्दिनम् । अथाऽऽगमन्नमी ग्राममनुतापपरा इति ॥ १३३ ॥ इहैव नः फलं जातं, क्षुद्दाधा मुनिदानतः । प्रेत्य किं भावि ? नो विद्मो, हा मुधा वञ्चिता वयम् ॥१३४॥ दानं दत्त्वा चतुर्वेलमेवं सत्त्वविवर्जिताः । पश्चात्तापं व्यधुर्मूढास्ते च काले मृतास्त्रयः ॥ १३५ ॥ ज्यायांसो धनदत्ताया, अभवन् भवतः सुताः । धनसार ! भ्रमन्तोऽपि धनसारविवर्जिताः ॥ १३६ ॥ | दानं दत्त्वाऽपिं निःसत्त्वा, यदमी अन्वशेरत । इहाभूवँस्ततो निःखा, नीता अप्यसकृत् श्रियम् ॥१३७॥ सर्वथा दानधर्मस्य, नाशो नैव भवेदिति । धन्येन सह युक्तानां, श्रीरेषां भवति स्थिरा ॥ २३८ ॥ तथा - प्रायेणाखण्डनिष्कम्पाऽनुकम्पाऽध्यवसायतः । शिशोः खण्डयितुं दुःखं, खण्डतण्डुलकादि तत् १३९ याभिः पुरा पुरन्धीभिर्दत्तं किंचानुमोदितम्। धन्यस्याष्टापि ताः पत्न्योऽभवन्नेताः श्रियां पदम् १४० युग्मम् सुभद्रयाऽनया प्राच्य भवे निजसखी रुषा । मृत्तिकां वह रे दासीत्याक्रोशि विभवाढ्यया ॥ १४१ ॥
For Private & Personal Use Only
Jainelibrary.org