________________
दानक०
॥ ५७ ॥
Jain Education In
%%%%
| इतश्च श्रमणः कश्चिन्मासक्षपणपारणे । तस्य गेहाङ्गणं प्राप, पापसन्तापनाशनः ॥ १२० ॥ उल्लास मुनिं दृष्ट्वा, दानभावः स्वभावतः । बाल्येऽपि वर्त्तमानस्य, तस्य कल्पतरोरिव ॥ १२१ ॥ मुनये विनयेनाथ, प्रणिपत्य स कृत्यविद् । परमान्नं परान्नोऽपि, प्रददौ गतदौर्हृदः ॥ १२२ ॥ आनन्दभरतो दानं दत्त्वा सत्त्वाधिकः शिशुः । अनुमोदनयाऽभीक्ष्णं, तदनन्तगुणं व्यधात् ॥ १२३ ॥ वेगात्तदाऽऽगता माता, मा तावत् क्षुधितः शिशुः । उत्थादिति पुनस्तस्मै, पायसं पर्यवेषयत् ॥ १२४॥ स भुज्यमानादप्यन्नात्तद्दत्तं बह्वमन्यत । व्यापार्यमाणादप्यर्थादृद्धिन्यस्तं यथा धनी ॥ १२५ ॥ ततो भोगफलं कर्म, शर्म्महेतुं निबध्य सः । मृत्वा विसूचिकादोषाद्धन्योऽयं त्वत्सुतोऽजनि ॥ १२६ ॥ मुनिदानप्रभावेण यशसां महसामसौ । संपदामद्भुतानां च, सञ्जातः किल मन्दिरम् ॥ १२७ ॥ त्रयाणामथ पुत्राणां, ज्यायसां प्राग्भवं भवान् । कृतकर्मपरीणामवैचित्र्यं च शृणोत्विह ॥ १२८ ॥ आसन्नासन्नधामानो, ग्रामे सुग्रामनामनि । त्रयः क्षयगतद्रव्या, वयस्याः कुलपुत्रकाः ॥ १२९ ॥ तेऽन्यदा वन्यदारूणां, ग्रहणाय वनान्तरे । गृहीतशम्बलाः सर्वे, कम्बलावरणा ययुः ॥
१३० ॥
For Private & Personal Use Only
अ० प०
८
॥ ५७ ॥
jainelibrary.org