________________
दानक०
॥ ५४ ॥
Jain Education
श्रीमन्तमन्यदा धन्यमनन्यसदृशं गुणैः । धीनिधानं नृपः पश्यन्, प्रधानमभयं जगौ ॥ ५५ ॥ धियाऽत्यंतीतया नूनं, महामात्य ! त्वया समम् । अयं धन्यः सतां मान्यो, गाहते तुल्यकक्षताम् ॥५६॥ अनेन खलु विश्वेषां विश्वे भूमिभृतामपि । इन्दुनेवांशुभिर्बुद्धिगुणैरुपकृतिः कृता ॥ ५७ ॥ अनेन खलु मे राज्यं प्राज्यं महिमभिर्बभौ । तेजखिनां प्रधानेन, निधानेनैव भूतलम् ॥ ५८ ॥ अनेन खलु ताः सर्वा, राजधान्योऽप्यलंकृताः । भाग्यलक्ष्मीसखेनैव, मुखेनेव वपुः श्रियः ॥ ५९ ॥ अनेन खलु निर्गत्य, विदेशेऽपि स्वदेशवत् । कस्यापि श्रेयसः पाकाद भुक्ता भोगसुखश्रियः ॥ ६० ॥ | अनेन खलु भाग्याप्तधनेन विगलद्धनाः । नैकशोऽप्यकृतज्ञाः स्वभ्रातरः प्रौढिमापिताः ॥ ६१ ॥ अनेन खल्वसौनीवृत्सर्वावन्तिगतेत्वयि । सोमेन द्यौरिव रखौ, प्रोषितेऽद्योतताधिकम् ॥ ६२ ॥ धन्यश्लाघामिति श्रुत्वा, मगधाधीशितुर्मुखात् । गुणानुरागिणां धुर्यो, मन्त्री सम्मदमासदत् ॥ ६३ ॥ ततो नित्यं महामात्यो, धन्येन प्रेयसा खसुः । श्रीदेनेवेश्वरः सख्यसौख्यं भेजे विशिष्य सः ॥ ६४ ॥ अथ धन्याग्रजा धन्य-ग्रामेषु सकलेष्वपि । स्वस्याज्ञां स्थापयन्ति स्माऽभाग्यरेखामिवोत्कटाम् ॥ ६५॥
ional
For Private & Personal Use Only
अ० प०
८
॥ ५४ ॥
www.jainelibrary.org