SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ५२ ॥ Jain Education अथाधीतान्यविद्याया गीतविद्याविशारदम् । पुत्र्या वासवदत्ताया, राजा मृगयते गुरुम् ॥ ११ ॥ अवोचत्सचिवः सर्वगान्धर्वागमपारगः । अस्त्येक एवोदयनः, श्रीशतानीकनन्दनः ॥ १२ ॥ गीतेन मोहयन्नागान् वने वनात्यनागसः । असौ नित्यमुपायान्तु, बध्वा सोऽप्यत्र नीयते ॥ १३ ॥ कटवस्त्रमयो ह्यन्तः स्थितैश्चारभटैः क्रियाः । गजो गत्यादिकाः कुर्वन्, सत्यवद् भ्राम्यते वने ॥ १४ ॥ तदन्तः स्थैर्भटैस्तत्र सास्त्रैर्गीतरसादिव । आसीदद्भिः स बध्येत, गायँस्तद्व्यसनी नृपः ॥ १५ ॥ इति बानीत इह, स कन्यां शिक्षयिष्यति, ततो राजाज्ञया मध्यऽप्येतत्सर्वमचीकरत् ॥ १६ ॥ असत्यमपि सत्यं तं, गजं ज्ञात्वा वनेचराः । शतानीकसुतायाख्यन्, सोऽपि तं बन्ध्धुमागमत् ॥ १७ ॥ गायन्न सावुपसृतैः, कृत्रिमेभभटैर्युतम् । वीणाभृदेकको बाऽवन्तीशाय मुदार्पितः ॥ १८ ॥ तमायातं नृपः प्राहाऽध्यापय त्वं सुतां मम । गान्धर्व किन्तु नालोक्या, काणाक्षी लज्जते ह्यऽसौ ॥१९॥ गुरुः कुष्ठी त्वया नेक्ष्यः, कन्यामप्येवमूचिवान् । सोऽनयोर्जवनीं प्रादादन्तरे गुरुशिष्ययोः ॥ २० ॥ | तामथाध्यापिपद्वत्सराजो गान्धर्वमद्भुतम् । साऽपि सम्यग् निजधिया, विनयादग्रहीदिदम् ॥ २१ ॥ For Private & Personal Use Only अ० प० ८ ॥ ५२ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy