________________
Jain Educat
अथाष्टमः पल्लवः
| अथाऽभयकथामात्तविमुक्तामनुसन्दधे । चण्डप्रद्योत भूपात्तन्मुक्तियुक्तिप्रकाशिनीम् ॥ १ ॥ लेखहारी लोहजङ्घः १ शिवाग्रमहिषी वरा २ । अग्निभीरू रथो दिव्योऽनलगियो गजः ४ ॥ २ ॥ रत्नैरेतैः स्फुरच्चत्वाः, सत्त्वार्यः सर्वभूभुजाम्, दन्तैरैरावत इव, प्रद्योतोऽद्योतताऽधिकम् ॥ ३ ॥ राजाज्ञयाऽन्यदा दूतो, गतो भृगुपुरे मुहुः । दिनेनैकेन यो गन्ता, पञ्चविंशतियोजनीम् ॥ ४ ॥ असौ गतागतैः शीघ्रैरुद्वेजयति नः सदा । तदेनं हन्म इत्यन्तर्दध्युर्भृगुपुरीजनाः ॥ ५ ॥ शंबले मोदकांस्तस्मै, तेऽदुर्मेदुरदौर्हृदाः । क्षुधार्तोऽपि स नाभुङ्क, निषिद्धोऽशकुनैः पथि ॥ ६ ॥ स राज्ञे तद्दाज्जाताशङ्कश्वाह पथः कथाम् । भूपपृष्टोऽथ पाथेयमात्रायेत्यभयोऽवदत् ॥ ७ ॥ अत्रास्ते दृग्विषो राजन्!, द्रव्यसंयोगजः फणी । बम्भणीमि ऋतं नो चेद्वने मुक्त्वा परीक्षय ॥ ८ ॥ तथाकृते पथा येन, यातं नागेन कानने । जन्तवस्तरवश्चास्य, दृशा दग्धास्ततोऽखिलाः ॥ ९॥ तुष्टोस्मि त्वद्धिया बन्ध-मोक्षं मुक्त्वा वरं वृणु । राज्ञेत्युक्तेऽभयः स्माह, भाण्डागारे वरकुरु ॥ १० ॥
For Private & Personal Use Only
www.jainelibrary.org