________________
कदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्तव्यमिति विहायानुशास्त्योपसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेनिश्चयेन तदकरणादिति भावनीयमिति, एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तदेशद्वारे अनुशास्तिद्वारम् , अधुना द्रव्यानुयोगमधिकृत्य दर्शयति
जेसिपि अस्थि आया वत्तव्वा तेऽवि अम्हवि स अत्थि । किंतु अकत्ता न भवइ वेययइ जेण सुहदुक्खं ।। ७५ ॥ व्याख्या-'येषामपि द्रव्यास्तिकादिनयमतावलम्बिनां तत्रान्तरीयाणां किम् ?–'अस्ति' विद्यते 'आत्मा' जीव वक्तव्याः 'तेऽपि तत्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैफल्यात्, किन्तु 'अकर्ता न भवति' सुकृतदुष्कृतानां कर्मणामका न भवति-अनिष्पादको न भवति, किन्तु ? कत्तेव, अत्रैवोपपत्तिमाह-वेदयते अनुभवति 'येन'कारणेन, किम्?-सुखदुःखं सुकृतदुष्कृतकर्मफलमिति भावः॥ न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदुःखवेदनाऽऽपत्तेः, अकर्तृत्वाविशेषात्, प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकारमात्मानं प्रत्यकिञ्चित्करत्वाद् , अलं विस्तरेणेति गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति । गतमनुशास्तितद्देशद्वारम्, अधुनोपालम्भद्वारविवक्षयाऽऽह
१ वैयावृत्त्याकरणात् वि. प्र.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org