________________
Jain Education Inte
धर्मे निश्चितं 'न प्रचालयन्ति' संगमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निदर्शनमाह – 'उत्पतद्वाता इव' संपतत्पवना इव 'सुदर्शनं गिरिं' मेरुम्, एतदुक्तं भवति यथा मेरुं न वाताञ्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ॥ १७ ॥ उपसंहरन्नाह - ' इत्येवम्' अध्ययनोक्तं दुष्प्रजीवित्वादि 'संप्रेक्ष्य' आदित आरभ्य यथावद्दृष्ट्वा 'बुद्धिमान्नरः' सम्यग बुद्ध्युपेतः 'आयमुपायं विविधं विज्ञाय' आयः सम्यग्ज्ञानादेः उपायः - तत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथ मनसा-त्रिभि रपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिगुप्तः सन् 'जिनवचनम्' अर्हदुपदेशम् 'अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १८ ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । समाप्तं रतिवाक्याध्ययनमिति ॥ १ ॥
॥ इति श्रीदशवैकालिके श्रीहरिभद्रसूरिविरचितवृहद्वृत्त्यां प्रथमा चूलिका ॥ १ ॥
अथ द्वितीया चूलिका |
व्याख्यातं प्रथम चूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्य चौघतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकारः -
For Private & Personal Use Only
ainelibrary.org