SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ विशेषणार्थः, भो इति शिष्यामन्त्रणे, 'कृतानां मनोवाकाययोगैरोघतो निर्वतितानां 'कर्मणां' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु 'दुश्चरितानां' प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं 'दुष्पराक्रान्तानां मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधवन्धनादीनि, तदमीषामेवंभूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति वाक्यशेषः, किम्?–'मोक्षो भवति' प्रधानपुरुषार्थो भवति 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च खल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, खफलादाने कर्मवायोगात्, 'तपसा वा क्षपयित्वा' अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपाक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८ । 'भवति चात्र श्लोकः' अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः॥ GAAAAAAAAACACACAN Jan Education in For Private Personel Use Only Hainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy