________________
उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे'त्युदाहारणोपन्यासार्थः।। श्रुतं मे आचारादि द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथाऽध्ययनं : कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्यतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम्-'ज्ञान'मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर'मिति खयं धर्मे स्थितत्त्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च 'रतः' सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ॥३॥
चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्टयाए तवमहिटिज्जा १ नो परलोगट्ठयाए तवमहिटिज्जा २, नो कित्तिवण्णसदसिलोगट्टयाए तवमहिट्ठिजा ३, नन्नत्थ निजरट्टयाए तवमहिट्ठिजा ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगोविविहगुणतवोरए निच्चं, भवइ निरासए निजरट्टिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४॥
SARKARREARSACREAL
Jan Educani
For Private Personel Use Only
K
ainelibrary.org