SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २४७ ॥ Jain Education 44% जहा ॥ ३ ॥ विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडे पडिसेह ॥ ४॥ अविनयवतो दोषमाह - 'जे अ'त्ति सूत्रं यः 'चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्तः 'दुर्वाग्' अप्रियवक्ता 'निकृतिमान' मायोपेतः 'शठः' संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उद्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनवि| नयविरहितः । किमिवेत्याह- काष्ठं 'स्रोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ॥ ३ ॥ किं च'विणयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि' एकान्त मृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह - 'दिव्याम्' अमानुषीम् 'असौ' नरः श्रियं' लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्तीं 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति । एत दुक्तं भवति - विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिचोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥ तहेव अविणीअप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्टिआ For Private & Personal Use Only १९ विनय समाध्य ध्ययनम् २ उद्देशः ॥ २४७ ॥ Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy