________________
सिद्धान्तविधिना 'योगे सति' सति सामर्थ्ये अन्यूनातिरिक्तं, किं तदित्याह-'पात्रकम्बलम्' पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा 'शय्यां वसतिं द्विकालं त्रिकालं च उच्चारभुवं च-अनापातवदादि स्थण्डिलं तथा 'संस्तारकं तृणमयादिरूपमथवा 'आसनम्' अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति सूत्रार्थः ॥१७॥ तथा 'उच्चाति सूत्रं, उच्चारं प्रस्रवणं श्लेष्म सिंघाणं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, 'परिस्थापयेद्' व्युत्सृजेत् संयत इति सूत्रार्थः ॥ १८ ॥ उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह-'पविसित्तु' सूत्रं, प्रविश्य 'परागारं' परगृहं पानार्थ भोजनस्य ग्लानादेरौषधार्थ वा यतं-गवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च 'रूपेषु' दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्यतानीति न मनो निवेशयेत्, रूपग्रहणं रसायुपलक्षणमिति सूत्रार्थः ॥ १९ ॥ गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'बहु'न्ति सूत्रं, अथवा उपदेशाधिकारे सामान्येनाह-'बहु'न्ति सूत्रं, 'बहु' अनेकप्रकारं शोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्व स्वपरोभयाहितमपि 'श्रुता ते रुदती पत्नीत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति च खपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः ॥२०॥ एतदेव स्पष्टयन्नाह-सुअंति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं खयमेव
Jain Education
For Private
Personel Use Only
d
ainelibrary.org