________________
दश० ३९
Jain Education Intel
'विधूप ( ब ) नेन वा' व्यजनेन वा किमित्याह-न वीजयेद् 'आत्मनः कार्यं' खशरीरमित्यर्थः 'बाह्यं वापि पुनलम्' उष्णोदकादीति सूत्रार्थः ॥ ९ ॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह - 'तण' त्ति सूत्रं, तृणवृक्षमित्येकवद्भावः, तृणानि -दर्भादीनि वृक्षा:-कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा 'आमम्' अशस्त्रोपहतं 'विविधम्' अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अभीयादिति सूत्रार्थः ॥ १० ॥ तथा 'गहणेसु'त्ति सूत्रं, 'गहनेषु' वननिकुञ्जेषु न तिष्ठेत्, संघटनादिदोषप्रसङ्गात्, तथा 'बीजेषु' प्रसारितशाल्यादिषु 'हरितेषु वा' दूर्वादिषु न तिष्ठेत्, 'उदके तथा नित्यम्' अत्रोदकम् - अनन्तवनस्पतिविशेषः, यथोक्तम्- 'उद अवए पणए' इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत् तत्रोत्तिङ्गः सर्पच्छत्रादिः पनकः- उल्लिवनस्पतिरिति सूत्रार्थः ॥ ११ ॥ उक्तो वनस्पतिकायविधिः, सकार्याविधिमाह - 'तस'त्ति सूत्रं, 'त्रसप्राणिनो' द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह-वाचा अथवा 'कर्मणा' कायेन, मनसस्तदन्तर्गतत्वादग्रहणम्, अपि च- 'उपरतः' सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं 'जगत्' कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वेदायेति सूत्रार्थः ॥ १२ ॥
अट्ठ हुमाइ पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, आस चिट्ट सहि
१ उदकं वनस्पतिविशेषः प्र. २ उदकमवकः पनकः.
For Private & Personal Use Only
jainelibrary.org