________________
दशवैका ० हारि-वृत्तिः
॥ २२८ ॥
Jain Education
ण्ठिते वा 'आसने' पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् 'ज्ञात्वे'त्यचेतनां ज्ञात्वा 'याचयित्वाऽवग्रह' मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥ ५ ॥ उक्तः पृथिवीकायविधिः, अधुना अष्कायविधिमाह - 'सीओदगं' ति सूत्रं, 'शीतोदक' पृथिव्युद्भवं सचित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्ततेत्याह - 'उष्णोदक' कथितोदकं 'तप्तप्राकं' तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं, प्रतिगृह्णीयाद्वृत्त्यर्थं 'संयतः' साधुः, एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥ ६ ॥ तथा 'उदउल्लं'ति सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहृतः 'उदकार्द्रम्' उदकबिन्दुचितमात्मन: 'कार्य' शरीरं स्निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः 'न संलि - खेत्' पाणिना, अपितु 'संप्रेक्ष्य' निरीक्ष्य 'तथाभूतम्' उदकार्द्रादिरूपं नैव कार्य 'संघट्टयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥ ७ ॥ उक्तोऽष्कायविधिः, तेजः कायविधिमाह - 'इंगालं'ति सूत्रं, 'अङ्गारं ' ज्वालारहितम् 'अग्निम्' अयःपिण्डानुगतम् 'अर्चिः' छिन्नज्वालम् 'अलातम्' उल्मुकं वा 'सज्योतिः' साग्निकमित्यर्थः, | किमित्याह - नोत्सिश्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम्-अग्निं 'निर्वापयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ॥ ८ ॥ प्रतिपादितस्तेजः कायविधिः, वायुकायविधिमाह - 'तालिअंटेण'त्ति सूत्रं, 'तालवृन्तेन' व्यजनविशेषेण 'पत्रेण' पद्मिनीपत्रादिना 'शाखया' वृक्षडालरूपया
For Private & Personal Use Only
१८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २२८ ॥
w.jainelibrary.org