________________
Jain Education Int
द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम् स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धून्नमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं किमिति ? - ' आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्संयतत्वेन, तथा 'पर' मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भः । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ॥ ५७ ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां (सप्तमस्य ) वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्तम् ॥ ७ ॥
For Private & Personal Use Only
jainelibrary.org