SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् । तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अबद्धास्थीनि कोमलानीति तदक्तं भवति, तथा 'द्वैधिकानीति पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊव नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ॥३२॥ प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'असंथड'त्ति सूत्रं, असमर्था 'एते आम्राः, अतिभरण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्तितफलाः' बहूनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् 'बहुसंभूताः' बहनि संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणि-अबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति सूत्रार्थः ॥ ३३ ॥'तहेव'त्ति सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणाः, पक्का इति, तथा नीलाश्छ्वय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो लवनयोग्याः "भर्जनवत्य' इति भर्जनयोग्याः तथा 'पृथुकभक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्कशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ ३४ ॥ प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-रूढ'त्ति सूत्रं, 'रूढाः'प्रादुर्भूताः 'बहुसंभूता' निष्पन्नप्रायाः 'स्थिरा निष्पन्नाः 'उत्सृता' इति Jain Education Intel For Private & Personel Use Only hainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy