SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १८७ ॥ Jain Education In सन् क्षुद्र भोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह - 'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥ ३२ ॥ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते - 'सिअ'त्ति सूत्रं, स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पान भोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्ण' विगतवर्णमाम्लखलादि 'विरसं' विगतरसं - शीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ॥ ३३ ॥ स किमर्थमेवं कुर्यादित्यत आह- 'जाणंतु'त्ति सूत्रं, जानन्तु तावन्मां 'श्रमणा' शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः' संयमवृत्तिः' 'सुतोष्यः' येन केनचित्तोषं नीयत इति सूत्रार्थः ॥ ३४ ॥ एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअणट्ठ'त्ति सूत्रं, 'पूजार्थम्' एवं कुर्वतः खपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानः- वस्त्रपात्रादिलाभनिमित्तः सन्मानः, स चैवंभूतः 'बहु' अतिप्रचुरं प्रधानसंक्लेशयोगात् 'प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च करोतीति सूत्रार्थः ॥ ३५ ॥ For Private & Personal Use Only ५ पिण्डैषणाध्य० २ उद्देशः ॥ १८७ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy