________________
दशवैका० हारि-वृत्तिः
५ पिण्डै|पणाध्य २ उद्देशः
॥ १८२॥
सुगन्धि वा भोजनजातं, गन्धग्रहणं रसायुपलक्षणं, 'सर्व' निरवशेष 'भुञ्जीत अश्नीयात् 'नोज्झेत्र नोत्सृजेत् किञ्चिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा, सर्व भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः। विचित्रा च सूत्रगतिरिति सूत्रार्थः॥१॥
सेजा निसीहियाए, समावन्नो अ गोअरे।अयावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥२॥
तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥३॥ विधिविशेषमाह-'सेज'त्ति सूत्रं, 'शय्यायां वसतौ 'नषेधिक्यां' खाध्यायभूमी, शय्यैव वाऽसमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ अयावदर्थ भुक्त्वा न यावदर्थम्अपरिसमाप्तमित्यर्थः, णमिति वाक्यालङ्कारे । यदि तेन भुक्तेन 'न संस्तरेत्न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥२॥'तओ'त्ति सूत्रं, ततः 'कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्ये(न्वेषये)त्, अन्यथा सकृद्भुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः॥३॥
कालेण निक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं स
॥१८२॥
Jain Education inte
For Private Personal Use Only
hinelibrary.org