SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्तिः ५ पिण्डै| षणाध्य १ उद्देशः ॥१७७॥ 'संखेदज' पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, 'तन्दुलोदकम्' अद्विकरकं 'अधुनाधौतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ७५ ॥ अत्रैव विधिमाह-'जं जाणिज'त्ति सूत्रं, यत्तन्दुलोदकं 'जानीयात् विद्याचिरौतम्, कथं जानीयादित्यत आह-मत्या दर्शनेन वा, 'मत्या' तग्रहणादिकर्मजया 'दर्शनेन वा' वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं, 'श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं 'यचे ति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनियुक्तायुक्त इति सूत्रार्थः ॥७६ ॥ उष्णोदकादिविधिमाह-'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आखाद्य 'रोचयेद्' विनिश्चयं कुर्यादिति सूत्रार्थः ॥७७॥ तचैवं-'थोवं'ति सूत्रं, स्तोकमाखादनार्थ प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्ल पूति नालं तृडपनोदाय । ततः किमनेनानुपयोगिनेति सूत्रार्थः॥ ७८ ॥ तं च' त्ति सूत्रं, सुगमम् ॥ ७९ ॥ आखादितं च सत्साधुप्रायोग्यं चेद्गृह्यत एव नो चेदग्राह्यं । 'तं चंत्ति सूत्रं, 'तच अत्यम्लादि भवेद 'अकामेन' उपरोधशीलतया 'विमनस्केन' अन्यचित्तेन 'प्रतीप्सितं' गृहीतम् तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि खयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम्, इह च 'सव्वत्थ संजमं संज ROGRAA-%CE ॥१७७॥ Jain Education Intematica For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy